Work

हरिहरकृततार्किकव्याख्यानदृष्ट्या प्रत्यक्षलक्षणं भेदाश्च

Year: 2021
Type: article
Abstract: भारतीयदर्शनशास्त्रेषु अन्यतमं भवति न्यायशास्त्रम्। तस्मिन् शास्त्रे न्यायसारग्रन्थः विशिष्टं स्थानमावहति। तादृशस्यास्य ग्रन्थस्य व्याख्याः भवन्तीति विद्वद्विदितोऽयं विषयः। तत्र वरदराजकृततार्किकरक्षा नाम एवं तदुपरि हरिहरीयम् इति तार्किकरक्षाव्याख्या तावत् दर्शनदृष्ट्या दर्शने विद्यमानासु व्याख्यासु महत् स्थानमावहति। न्यायव्याख्यानग्रन्थेषु तार्किकरक्षाग्रन्थः प्रमुखस्थानं भजते। ग्रन्थोऽयं वरदराजेन प्रणीतमिति स्वस्य तार्किकरक्षाग्रन्थे प्रतिपादितम् । एते मध्वाचार्याणां शिष्याः आसन् इति स्वस्य ग्रन्थे वर्णितम्। मध्वाचार्याणां समयस्तावत् एकादशशताब्दिः। ते अद्वैतदर्शने एवं द्वैतदर्शने पारङ्गमः आसन्। उपर्युक्तप्रमाणानुसारं वक्तुं शक्यते वरदराजस्य समयः एकादश तथा द्वादशशताब्देः मध्यवर्तीति। तत्परवर्तिकाले दार्शनिकाः हरिहराचार्याः तदुपरि तार्किकरक्षाव्याख्यानमिति एकं व्याख्यानं कृतवन्तः। तेषु व्याख्यानेषु प्रत्यक्षलक्षणं, तस्य भेदाः, व्याख्यानविषये दृष्ट्याकर्षणं करोति।
Author: Ashis Kumar Jena
Language: Sanskrit
Keyword: Nyāya
Open Access status: diamond
OpenAlex ID: W4200633166
FWCI:
Cites:
Cited by:
Related to: 10