काश्मीरीयविदुषां शब्दशक्तिविचारसरणिः - एकं समालोचनम्
Year: 2018
Type: article
Abstract: कश्मीरं खलु सारस्वतसाधनायाः तपोभूमिः। दर्शनशास्त्राणां साहित्यशास्त्रस्य च विकासपरम्परायां कश्मीरीयविदुषामनवद्यश्रमराशिः सुरसरस्वतीवाङ्मयसमृद्धिसम्पादने किमप्यद्भुतमेव स्थानमावहति। तत्र च यथा काश्मीरीयशैवदर्शनसिद्धान्तानां तथा अलङ्कारशास्त्रीयतत्त्वानामाविष्कारे विकासे समुल्लासेऽपि अनन्यसाधारणवैशिष्ट्यं भजते कश्मीरभूमिः।सम्प्रति समुपलब्धेषु अलङ्कारशास्त्रीयतत्त्वरत्नेषु तद्वाह्केषु च ग्रन्थरत्नाकरेषु समुज्ज्वलहीरकाणि अस्मिन्नेव कश्मीरभूमिभागे देदीप्यन्ते, येषु भामहोद्भटवामनरुद्रटरुद्रभटानन्दवर्धनभट्टलोल्लटश्रीशङ्कुकाभिनवगुप्तमुकुलभट्टभट्टतोतकुन्तक-महिमभट्टक्षेमेन्द्रमम्मटकल्हणविल्हणजल्हणरुय्यकशारदातनयशिङ्गभूपालप्रभृतयो मनीषिणः प्रामुख्यं भजन्ते। भरतोत्तोरकाले अलङ्कारशास्त्रीयत्त्त्वानां विकासः पारेसहस्रं वर्षाणि यावत् मुख्यतया काश्मीरभूमावेव समजनि। अलङ्कारशास्त्रे विकसिताः प्रसिद्धाः प्रायः सर्वेऽपि सम्प्रदायाः काश्मीरभूमावेव जनिं लेभिरे। अलङ्कारसम्प्रदायस्य स्रष्टा भामहः, रीतिसम्प्रदायस्य जनकः वामनः, ध्वनिसम्प्रदायस्य उद्गाता आनन्दवर्धनः, वक्रोक्तिसम्प्रदायस्य प्रणेता कुन्तकः, औचित्यसम्प्रदायस्य प्रतिष्ठाता क्षेमेन्द्रश्च कश्मीरादेव प्रादुर्बभूवुः।
Source: HAL
Author: Mahanty, Sugyan Kumar, Sugyan
Institution: Central Sanskrit University
Language: English
Topic: Indian and Buddhist Studies
Subfield: Religious studies
Field: Arts and Humanities
Domain: Social Sciences
Open Access status: green
OpenAlex ID: W4390631903
