Work

वैशेषिकदर्शने मोक्षविचारः

Year: 2019
Type: article
Abstract: विदितचरमेव इदं हि समेषां यत् विद्वत्समाजे पदार्थानां निर्दुष्टस्वरूपनिर्वचनपरत्वेन प्रसिद्धिमापन्नं वैशेषिकशास्त्रं गुणगौरवेण दर्शनशास्त्रेषु विशिष्टं स्थानं भजत इति । नापरं शास्त्रं विद्यते यत् एकमप्यविहाय कृत्स्नमपि जगज्जातं तत्वातत्वनिर्णयपुरस्सरं सप्तसु पदार्थेषु अन्तर्भावनाय प्रवृत्तम् । अर्थात् शास्त्रमिदं समस्तमपि जगत् पदार्थेषु विभज्य लक्षणप्रमाणाभ्याम् एकैकस्य पदार्थस्य तदन्तर्भूतानां भेदोपभेदानां तत्वं सुष्टु निरूपयितुं प्रयतते ।अत एवास्मिन् शास्त्रे साक्षात्परम्परया वा सर्वेषां विचाराणां पदार्थत्वेनान्तर्भावादस्य शास्त्रस्य सार्वत्रिकत्वं सर्वशास्त्रोपकारकत्वं च सिध्यति । इत्थं सर्वशास्त्रसहकारितया तीक्ष्णमतिप्रवर्धकतया प्रशंसितेऽस्मिन् शास्त्रे विचारितेषु विचारेषु मोक्षविचारोऽपि विचारणीयो विचारः । श्रुतिप्रतिपादितेषु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु चरमभूतः सर्वैरप्यर्जनीयः पुरुषार्थः मोक्षः । अपवर्गः निःश्रेयसमित्यादि अस्यैव नामान्तराणि । यथा वेदान्तप्रभृतिषु विविधशास्त्रेषु तत्तच्छास्त्रसिद्धान्तानुगुणम् अपवर्गस्वरूपविवेचनं कृतं दृश्यते ।
Language: Sanskrit
Open Access status: green
OpenAlex ID: W4403884316
FWCI:
Cites:
Cited by:
Related to: 10