Work

भारतीयवैदिकदर्शनपुराणसाहित्ये सृष्टिप्रक्रियायाः मूलभूतेषु तत्त्वेषु जलतत्त्वस्य प्राधान्यम्

Year: 2019
Type: article
Abstract: भारतदेशे सृष्टिविज्ञानं ऋग्वेदसमकालसमुद्भूतम्। अर्थात् ऋग्वेदः यावान् प्राचीनः तावत् प्राचीनं सृष्टिविज्ञानम् इति। ऋग्वेदे नैकानि सृष्टिविज्ञानबोधकानि सूक्तानि उपलभ्यन्ते। तेषु नासदीयसूक्तं, पुरुषसूक्तं, कालसूक्तं, विष्णुसूक्तं, हिरण्यगर्भसूक्तं, अदितिसूक्तं, इत्यादीनि प्रसिद्धिमलभन्त। तेषु सृष्टिविज्ञानस्य आविष्करणावसरे कश्चनक्रमः पर्यपाल्यत। तत्क्रमानुसारं सृष्टेः कारणभूतं तत्त्वं सृष्टिविकासक्रमः सृष्टेः निरन्तरवृद्धिः इति अंशत्रयं प्राधान्यं वहति। सृष्टिकारणस्य ते वैदिकऋषयः आत्मेति, ब्रह्मेति, अदितिरिति, कालेति, उच्छिष्टब्रह्मेति, हिरण्यगर्भेति, नाना नामभिः व्यवाहरन्। अनन्तरं सृष्टिक्रमविकासविषये सृष्टेराधारभूतानां विविधाधिकरणानां व्युत्पत्तिः ततः सृष्टिगतप्रकृतीनां व्युत्पत्तिः ततः विकृतीनां व्युत्पत्तिरिति क्रमपरिचयमकुर्वन्।
Language: Sanskrit
Open Access status: green
OpenAlex ID: W4405807369
FWCI:
Cites:
Cited by:
Related to: 10